
ब्लूप्रिंट आधारित अभ्यास प्रश्न पत्र विषय - संस्कृत कक्षा 8 वार्षिक परीक्षा 2025 | Sanskrit Solved Model Queston Paper
बहुविकल्पीयप्रश्नाः (प्र. 1-5)
प्रश्न 1. नरेन्द्रनाथः .......... अति नाम्ना प्रसिद्धोऽभवत् ?
(A) दयानन्दः
(B) कालिदासः
(C) विवेकानन्दः
(D) परमहंसः
उत्तर― (C) विवेकानन्दः
प्रश्न 2. 'पितरौ' इत्यस्मिन् पदे समासः अस्ति-
(A) अव्ययीभावः
(B) तत्पुरुषः
(C) द्वन्द्वः
(D) द्विगुः
उत्तर― (C) द्वन्द्वः
प्रश्न 3. 'वसन्तोत्सवः' अस्मिन् पदे सन्धिः अस्ति-
(A) दीर्घस्वरसन्धिः
(B) विसर्गसन्धिः
(C) गुणस्वरसन्धिः
(D) व्यज्जनसन्धिः
उत्तर― (C) गुणस्वरसन्धिः
प्रश्न 4. .......... मन्त्रदृष्टारः।
(A) ऋषयः
(B) मानवः
(C) दानवः
(D) राक्षसः
उत्तर― (A) ऋषयः
प्रश्न 5. विसर्गसन्धेः उदाहरणम् अस्ति -
(A) नमस्ते
(B) विद्यालयः
(C) पावकः
(D) गणेशः
उत्तर― (A) नमस्ते
रिक्तस्थानपूर्तिः (प्र. 6-10)
प्रश्न 6. नरेन्द्रनाथस्य पिता अभिभाषकः आसीत् ।
प्रश्न 7. सः आजाद चन्द्रशेखरः इति नाम्ना प्रसिद्धः।
प्रश्न 8. 'श्रोतुम्' रूपे तुमुन् प्रत्ययः अस्ति ।
प्रश्न 9. उदये सविता ताम्रः।
प्रश्न 10. तपसा विन्दते महत् ।
अति लघु उत्तरीय प्रश्न (प्र. 11-16)
प्रश्न 11. दुर्गस्य वामे दर्शनीयं किं विद्यते ?
उत्तर― चतुर्भुजमन्दिरम्।
प्रश्न 12. आतपपीड़ितः कः आसीत् ?
उत्तर― गजः।
प्रश्न .13 बन्धुजनाः कुत्र स्थिताः?
उत्तर― गह्वरे
प्रश्न 14. न्यायाधीशेन चन्द्रशेखरः कति वेत्रप्रहारैः दण्डितः ?
उत्तर― पञ्चदश।
प्रश्न 15. 'पितृ' शब्दस्य षष्ठीएकवचनस्य रूपं भवति ?
उत्तर― पितुः
प्रश्न 16. 'असत्यं मा वद' अत्र अव्ययम् अस्ति ?
उत्तर― मा।
लघु उत्तरीय प्रश्नः (प्र. 17-22)
प्रश्न 17. वराहमिहिरः कस्याः स्थाने वैज्ञानिकदृष्टिकोणस्य महत्त्वं प्रतिपादितवान्?
उत्तर― वराहमिहिरः गतानुगतिकतायाः स्थाने वैज्ञानिक दृष्टिकोणस्य महत्त्वं प्रतिपादितवान् ।
प्रश्न 18. निम्नलिखितसङ्ख्याः संस्कृतशब्देषु लिखत -
20, 34, 42.
उत्तर― 20 - विंशतिः
34 - चतुस्त्रिंशत्
42 - द्विचत्वारिंशत्
प्रश्न 19. राज्ञः धर्मः किमस्ति ?
उत्तर― राज्ञः धर्मः प्रजापालनं शासनम् एव अस्ति।
प्रश्न 20. स्वपाठ्यपुस्तकात् एकं श्लोकं लिखत -
उत्तर― अयं निजः परोवेति गणना लघुचेतसाम् ।
उदारचरितानां तु वसुधैवकुटुम्बकम् ॥
प्रश्न 21. कदा जागरणीयम् ?
उत्तर― अहर्निशं जागरणीयम्।
प्रश्न 22. कामदगिरिः स्थलं किमाच्छादितम् अस्ति ?
उत्तर― कामदगिरिः स्थलं हरीतिमाच्छादितम् अस्ति।
दीर्घ उत्तरीय प्रश्नः (प्र. 23-26)
प्रश्न 23. अघोलिखितं पद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत-
परोक्षेकार्यहन्तारं प्रत्यक्षे प्रियवादिनम्।
वर्जयेत्तादृशं मित्रं विषकुम्भं पयोमुखम् ॥
प्रश्न- (i) कदा कार्यहन्तारम् ?
(ii) कुत्र प्रियवादितम् ?
(iii) वर्जयेत्तादृशं किम् ?
(iv) विषकुम्भं किम् ?
(v) 'विषकुम्भं' इत्यस्य समासविग्रहं कुरुत ?
उत्तर― (i) परोक्षे कार्यहन्तारम् ।
(ii) प्रत्यक्षे प्रियवादिनम् ।
(iii) वर्जयेत्तादृशं मित्रम् ।
(iv) विषकुम्भं पयोमुखम् ।
(v) विषस्य कुम्भम् ।
प्रश्न 24. अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत -
'बहुजनहिताय, बहुजनसुखाय' इत्यस्मिन्कार्ये संलग्नस्य स्वामी विवेकानन्दस्य बाल्यकालस्य नाम 'नरेन्द्रनाथः' आसीत् । तस्य जन्म जनवरीमासस्य द्वादशे दिनांक १८६३ ख्रिस्ताब्दे (१२ जनवरी, १८६३) कोलकातानगरे अभवत् । तस्य मातुः नाम 'भुवनेश्वरी देवी' आसीत्। तस्य पिता विश्वनाथदत्तः लब्धप्रतिष्ठः, अभिभाषकः आसीत् ।
(i) विवेकानन्दस्य बाल्यकालस्य नाम किम् आसीत् ?
(ii) विवेकानन्दस्य जन्म कुत्र अभवत् ?
(iii) तस्य मातुः नाम किम् आसीत् ?
(iv) तस्य पिता लब्धप्रतिष्ठः कः आसीत् ?
(v) 'इत्यस्मिन्' इति पदे सन्धिविच्छेदं कुरुत ?
उत्तर― (ⅰ) विवेकानन्दस्य बाल्यकालस्य नाम 'नरेन्द्रनाथः' आसीत्।
(ii) विवेकानन्दस्य जन्म कोलकातानगरे अभवत् ।
(iii) तस्य मातुः नाम 'भुवनेश्वरी देवी' आसीत्।
(iv) तस्य पिता लब्धप्रतिष्ठः अभिभाषकः आसीत्।
(v) इति + अस्मिन् ।
प्रश्न 25. प्रदत्तैशब्दैः पत्रं पूरयत-
(वन्दे, वार्षिकंमूल्यांकनम्, अध्ययनम्, अत्र, कथम्)
बारापत्थर, सिवनी
तिथि- ०५/०३/२०२५
पूज्यपितः !
दिनांक :- १०/०१/२०२२
अहम् ............ कुशलः अस्मि । भवान् तत्र ............ अस्ति। मम ...........मार्चमासे भविष्यति मम ........... सम्यक् प्रचलति । मातरं ...........।
भवतः पुत्रः
काव्यः
उत्तर―
बारापत्थर, सिवनी
तिथि- ०५/०३/२०२५
पूज्यपितः !
अहम् अत्र कुशलः अस्मि । भवान् तत्र कथम् अस्ति। मम वार्षिकमूल्यांकनम् मार्चमासे भविष्यति मम अध्ययनम् सम्यक् प्रचलति । मातरं वन्दे।
भवतः पुत्रः
काव्यः
प्रश्न 26. अधोलिखितेषु विषयेषु एकस्मिन् विषये पञ्चवाक्येषु वाक्यानि (निबन्ध) रचयत - (१) लोकहितं मम कत्र्तव्यम्। (१) स्वामी विवेकानन्दस्य बाल्यकालस्य नाम 'नरेन्द्रनाथः' आसीत्। (१) महात्मा गाँधी अस्माकं महापुरुषः अस्ति। (१) मध्यप्रदेशः भारतगणराज्यस्य विशालं राज्यम् अस्ति। कक्षा 8 वार्षिक परीक्षा की तैयारी विषय संस्कृत के अभ्यास मॉडल प्रश्नपत्र (हल सहित) एवं महत्वपूर्ण प्रश्न और उत्तर।
आशा है, उपरोक्त जानकारी उपयोगी एवं महत्वपूर्ण होगी।
(अ) मम कर्त्तव्यम्
(ब) विवेकानन्दः
(स) महात्मा गांधी
(द) मध्यप्रदेशः
उत्तर―
(अ) मम कर्त्तव्यम्
(२) देशसेवां करणं मम कर्त्तव्यम्।
(३) सर्वजनसम्मानं मम कर्त्तव्यम्।
(४) सर्वजनहितं मम कर्त्तव्यम्।
(५) समयेन विद्यालयगमनं मम कर्त्तव्यम्।
(६) सर्वैः सह मधुरभाषणं मम कर्त्तव्यम्।
(७) राष्ट्रध्वजसम्मानं मम कर्त्तव्यम्।
(८) राष्ट्रगानसम्मानं मम कर्त्तव्यम्।
(९) ध्यानेन पठनम् मम कर्त्तव्यम्।
(१०) गुरुजनसम्मानं मम कर्त्तव्यम्।(ब) विवेकानन्दः
(२) स्वामी विवेकानन्दस्य जन्म कोलकातानगरे अभवत्।
(३) स्वामी विवेकानन्दस्य पिता 'विश्वनाथदत्त्ः' आसीत्।
(४) स्वामी विवेकानन्दस्य माता 'भुवनेश्वरी देवी' आसीत्।
(५) स्वामी विवेकानन्दस्य गुरुः 'रामकृष्णपरमहंसः' आसीत्।
(६) स्वामी विवेकानन्दस्य शिष्या 'भगिनी निवेदिता' आसीत्।
(७) स्वामी विवेकानन्दः यूनां कृते पथप्रदर्शकः आसीत्।
(८) स्वामी विवेकानन्दः संस्कृतानुरागी आसीत्।
(९) नरेन्द्रनाथः 'स्वामी विवेकानन्दः' इति नाम्ना प्रसिद्धोऽभवत्।
(१०) स्वामी विवेकानन्दस्य बहवः शिष्याः अभवन्।(स) महात्मा गांधी
(२) सः अहिंसाम् परिपालयन् स्वदेशं वैदेशिकेभ्यः अयुञ्चयत्।
(३) महात्मा गाँधिनः वास्तविक नाम मोहनदास गाँधी आसीत्।
(४) तस्य पितुः नाम करमचन्द गाँधी तस्य मातु च नाम पुतलीबाई आसीत्।
(५) तस्य माता अति धार्मिक प्रवृत्येः आसीत्।
(६) तस्य पिता तस्मिन् अत्यन्तं अस्निह्यत्।
(७) उच्च शिक्षां प्राप्तुं सः विदेशं अगच्छत्।
(८) स्वतन्त्रतासंग्रामस्य सः प्रमुख नेता आसीत्।
(९) तस्य प्रेरणया एवं जनाः स्वतन्त्रता आन्दोलने अक्षपिन् स्वदेशं स्वतन्त्रमकुर्वन।
(१०) महात्मा गाँधी सम्पूर्ण संसारस्य वन्दनीयः अस्ति।(द) मध्यप्रदेश:
(२) अस्मिन् प्रदेशे अनेकानि नगराणि सन्ति।
(३) तत्र औद्योगिक विकासः तीव्र गत्या अभवत्।
(४) अनेकानि रमणीकानि नगराणि सन्ति।
(५) तानि विद्यायाः केन्द्राणि सन्ति।
(६) तेषु नगरेषु अनेके विद्यालयाः महाविद्यालयाः विश्वविद्यालयाः सन्ति।
(७) विविध विषयानाम् ज्ञानम् तेषु गुरुभिः प्रदीयते।
(८) अस्य प्रदेशस्य राजधानी भोपालनगरम् अस्ति।
(९) अस्य नगरस्य महत्वम् प्राचीनकालात् एव वर्तते।
(१०) इदम् नगरम् सरोवराणाम् उद्यानाम् च अस्ति।
(११) राष्ट्रस्य विकासे मध्यप्रदेशस्य अति महत्त्वम् वर्तते।
1. विषय - संस्कृत कक्षा 8 वार्षिक परीक्षा 2025 ब्लूप्रिंट आधारित अभ्यास प्रश्न पत्र
वार्षिक परीक्षा 2024 अभ्यास मॉडल प्रश्न पत्र कक्षा 8 विषय- संस्कृत
2.
3. संस्कृत मॉडल प्रश्नपत्र (ब्लूप्रिंट आधारित) वार्षिक परीक्षा 2024 कक्षा 8
4. संस्कृत कक्षा- 8th वार्षिक परीक्षा वर्ष 2024 हेतु महत्वपूर्ण वैकल्पिक प्रश्न
5. मॉडल प्रश्नपत्र विषय संस्कृत (हल सहित) कक्षा आठवीं वार्षिक परीक्षा 2023
(I hope the above information will be useful and important. )
Thank you.
R. F. Tembhre
(Teacher)
pragyaab.com
Comments