Sanskrit Solved Practice Paper Class 8th | ब्लूप्रिंट आधारित अभ्यास प्रश्न पत्र विषय - संस्कृत वार्षिक परीक्षा 2025
बहुविकल्पीयप्रश्नाः (प्र. 1-5)
प्रश्न 1. 'हसितुम्' इत्यस्मिन् पदे प्रत्ययः अस्ति-
(A) क्त्वा
(B) ल्यप्
(C) तुमुन्
(D) शानच्
उत्तर― (C) तुमुन्
प्रश्न 2. अस्माकं राष्ट्रियपर्वः
(A) दीपावलिः
(B) विजयादशमी
(C) गणतन्त्रदिवसः
(D) मकरसंक्रान्तिः
उत्तर― (C) गणतन्त्रदिवसः
प्रश्न 3. मानवेषु का भावना भवेत् -
(A) परोपकारभावना
(B) असत्यभावना
(C) मिथ्याभावना
(D) निजसौख्यं भावना ।
उत्तर― (A) परोपकारभावना
प्रश्न 4. 'बालकाय' शब्दस्य विभक्तिः अस्ति-
(A) द्वितीया
(B) तृतीया
(C) चतुर्थी
(D) षष्ठी
उत्तर― (C) चतुर्थी
प्रश्न 5. आचारः परमो..........।
(A) धर्मः
(B) अधर्मः
(C) नीतिः
(D) वार्ता
उत्तर― (A) धर्मः
रिक्तस्थानपूर्तिः (प्र. 6-10)
प्रश्न 6. राज्येषु राज्यपालाः प्रतिनिध्यं वहन्ति ।
प्रश्न 7. सम्प्रदानकारके चतुर्थी विभक्तिः भवति।
प्रश्न 8. चारित्र्यबलं धारयत।
प्रश्न 9. आचारः परमो धर्म।
प्रश्न 10. आर्यभटः खगोलशास्त्री आसीत्।
अति लघु उत्तरीय प्रश्नाः (प्र. 11-16)
प्रश्न 11. शीतलवाहिनी का ?
उत्तर― गङ्गा।
प्रश्न 12. शिला शैले केन आरोप्यते ?
उत्तर― यत्नेन।
प्रश्न 13. विवेकानन्दस्य पितुर्नाम किम् आसीत् ?
उत्तर― विश्वनाथदत्तः।
प्रश्न .14 भ्रमणं कुत्र करणीयम् ?
उत्तर― विपत्ति-विपिने।
प्रश्न 15. यक्षः केन प्रश्नान् अकरोत् ?
उत्तर― युधिष्ठिरेण।
प्रश्न 16. 'अनुगच्छति' इत्यस्मिन् पदे उपसर्गः अस्ति ?
उत्तर― अनु।
लघु उत्तरीय प्रश्न (प्र. 17-22)
प्रश्न 17. निम्नलिखितसङ्ख्याः संस्कृतशब्देषु लिखत ?
12, 25, 30.
उत्तर― 12 - द्वादश
25 - पञ्चविंशति
30 - त्रिंशत्
प्रश्न 18. अधोलिखितस्य लट्लकारस्य रूपाणि लृट्लकारे (भविष्यत्काले) परिवर्तयत -
(क) पठति, (ख) खादति, (ग) लिखति।
उत्तर― (क) पठिष्यति, (ख) खादिष्यति, (ग) लेखिष्यति ।
प्रश्न 19. आदित्यदासः कस्य उपासकः आसीत् ?
उत्तर― आदित्यदासः आदित्यस्य उपासक आसीत्।
प्रश्न 20. स्वपाठ्यपुस्तकात् एकं श्लोकं लिखत ?
उत्तर― परोक्षेकार्यहन्तारं प्रत्यक्षे प्रियवादिनम् ।
वर्जयेत्तादृशं मित्रं विषकुम्भं पयोमुखम् ॥
प्रश्न 21. रामराजामन्दिरं कस्याः नद्याः तटे विद्यते ?
उत्तर― रामराजामन्दिरं वेत्रवत्याः नद्याः तटे विद्यते ।
प्रश्न 22. भारतस्य प्राचीनगौरवं विदेशेषु केन स्थानितम् ?
उत्तर― भारतस्य प्राचीनगौरवं विदेशेषु विवेकानन्देन स्थापितम्।
दीर्घ उत्तरीय-प्रश्नाः (प्र. 23-26)
प्रश्न 23. अधोलिखिते प्रार्थनापत्रे केषुचित् स्थलेषु रिक्तस्थानानि दत्तानि सन्ति, यस्य पूर्तिः कोष्ठके दत्तैः शब्दैः करणीयम्।
(स्वीकुर्वन्तु, कार्यम्, कांक्षी, अस्ति, सेवायाम्)
प्रार्थना पत्रम्
...........
श्रीमान् प्रधानाध्यापकमहोदयः
शासकीय माध्यमिक विद्यालयः
इन्दौरम्
महोदय !
सविनयं निवेदनम् ........... यत् मम गृहे आवश्यकं ........... आगतम्। अस्मात् कारणात् अहं विद्यालयम् अपबंतंहम न शक्नोमि ।
अतः मां द्विदिवसीयम् अवकाशं ...........।
दिनांक:-८/३/२०२२
भवतः शिष्या
...........
कक्षा-अष्टमी
उत्तर―
सेवायाम्
श्रीमान् प्रधानाध्यापकमहोदयः
शासकीय माध्यमिक विद्यालयः
इन्दौरम्
महोदय !
सविनयं निवेदनम् अस्ति यत् मम गृहे आवश्यकं कार्यम् आगतम् । अस्मात् कारणात् अहं विद्यालयम् अपबंतंहम न शक्नोमि ।
अतः मां द्विदिवसीयम् अवकाशं स्वीकुर्वन्तु।
दिनांक:-८/३/२०२२
भवतः शिष्या
कांक्षी
कक्षा-अष्टमी
प्रश्न 24. अधोलिखितं पद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत-
उद्योगे नास्ति दारिद्रयं जपतो नास्ति पातकम् ।
मौने च कलहो नास्ति नास्ति जागरिते भयम् ॥
प्रश्न- (i) दारिद्रयं कदा नास्ति ?
(ii) जपतो किं नास्ति ?
(iii) मौने किं नास्ति ?
(iv) जागरिते किं नास्ति ?
(v) 'नास्ति' इत्यस्य सन्धिविच्छेदं कुरुत।
उत्तर― (i) दारिद्रयम् उद्योगे नास्ति ।
(ii) जपतो पातकं नास्ति ।
(iii) मौने कलहो नास्ति ।
(iv) जागरिते भयं नास्ति ।
(v) न + अस्ति
प्रश्न 25. अघोलिखितेषु विषयेषु एकस्मिन् विषये पञ्चवाक्येषु वाक्यानि (निबन्धं) रचयत् -
(क) इन्दिरा गाँधी,
(ख) धेनुः,
(ग) पुस्तकम्,
(घ) उद्यानम्।
उत्तर―
(क) इन्दिरा गाँधी
(१) इन्दिरागान्धिः प्रयागनगरे जन्म प्राप्तवती।
(२) इन्दिरागान्धिनः पिता जवाहरलालनेहरूः आसीत्।
(३) इन्दिरागान्धिनः माता कमलानेहरूः आसीत्।
(४) इन्दिरागान्धिनः पतिः फिरोजगान्धिः आसीत्।
(५) इन्दिरागान्धिनः प्रारम्भिकी शिक्षा प्रयागे पूनानगरे चः अभवत्।
(६) इन्दिरागान्धिः प्रधानमन्त्री अभवत् ।
(७) इन्दिरागान्धिनः 'दरिद्रताम् अपनय' इति उद्घोषणा आसीत्।
(८) इन्दिरागान्धिः 'शान्तिदूती' आसीत्।
(९) इन्दिरागान्धिनः समाधिस्थलं 'शक्तिस्थलम्' इति अस्ति।
(१०) इन्दिरागान्धिनः उच्चशिक्षा ऑक्सफोर्डविश्वविद्यालये अभवत्।
(ख) धेनुः
(१) धेनुः अस्माकम् माता अस्ति।
(२) धेनोः चत्वारः पादाः, द्वे शृङ्गे, एकं लाङ्गूलं च भवति।
(३) धेनूनां विविधाः वर्णाः भवन्ति।
(४) धेनुः तृणानि भक्षयति।
(五) धेनुः जनेभ्यः मधुरम् पयः प्रयच्छति।
(६) गोमूत्रेण विविधानां दोषाणां रोगाणां च नाशः भवति।
(७) धेनोः दुग्धेन दधि, तक्रम, नवनीतम्, घृतम् च निर्मितम् भवति।
(८) भारतीयसंस्कृतौ धेनूनाम् महत्त्वम् अधिकम् अस्ति।
(९) धेनोः दुग्धम् मधुरम्, पथ्यम् हितकारि च भवति।
(१०) वयं धेनुम् मातृरूपेण पूजयामः ।
(ग) पुस्तकम्
(१) पुस्तकानि मह्यम् अतीव रोचन्ते।
(२) मम समीपे बहूनिपुस्तकानि सन्ति।
(३) पुस्तकानि अतीव मनोहराणि सन्ति।
(४) मम समीपे चित्रपुस्तकम् अपि अस्ति।
(५) रमणीयं चित्रं चित्तम् आनन्दयति।
(६) पुस्तकानि ज्ञानस्य भण्डारः भवन्ति।
(७) पुस्तकानि अस्माकं मित्राणि सन्ति।
(८) पुस्तकानां सङ्गतिः लाभप्रदा भवति।
(९) अस्माभिः पुस्तकानि रक्षणीयानि।
(१०) स्वगृहे लघुः पुस्तकालयो निर्मातव्यः।
(११) पुस्तकेषु यत्र कुत्रचित् न लेखनीयम् ।
(घ) उद्यानम्
(१) उद्यानम् अत्यन्तं रमणीयम् भवति।
(२) उद्याने वृक्षाः रोहन्ति।
(३) वृक्षाः पर्णैः, पुष्पै, फलैः च शोभन्ते।
(४) बालकाः उद्याने क्रीडन्ति।
(५) उद्याने तडागः अपि अस्ति।
(६) जनाः उद्याने भ्रमणार्थं गच्छन्ति।
(७) खगाः वृक्षेषुः निवसन्ति।
(८) तत्र ते नीटान् रचयन्ति।
(९) प्रभाते खगानां कूजनम् मनोहरम् भवति।
(१०) वर्तमानकाले वृक्षारोपणकार्यं तीव्रगत्या प्रसरति।
प्रश्न 26. अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत -
तदानीम् उज्जयिनी विद्यायाः प्रमुखकेन्द्रमासीत्। उज्जयिन्यां गुप्तवंशस्य संरक्षणे बहुविधकला-विज्ञान-सांस्कृतिककेन्द्रादीनि संरक्षितानि वर्द्धितानि चासन्। अत्र नानादिग्देशेभ्यः विद्वज्जनानां समागमः भवति त्म अत एव वराहमिहिरोऽपि समाप्याध्ययनम् अस्मिन्नेव नगरे समागतः।
प्रश्न- (i) तदानीम् उज्जयिनी कस्याः प्रमुखकेन्द्रमासीत् ?
(ii) अत्र केषां समागमः भवति स्म ?
(iii) उज्जयिन्यां कस्य संरक्षणम् आसीत् ?
(iv) कः समाप्याध्ययनम् अस्मिन्नेव नगरे समागतः ?
(v) 'समाप्याध्ययनम्' इत्यस्य पदस्य सन्धिविच्छेदं कुरुत ?
उत्तर― (i) तदानीम् उज्जयिनी विद्यायाः प्रमुखकेन्द्रमासीत् ।
(ii) अत्र विद्वज्जनानां समागमः भवति स्म ।
(iii) उज्जयिन्यां गुप्तवंशस्य संरक्षणम् आसीत् ।
(iv) वराहमिहिरः समाप्याध्ययनम् अस्मिन्नेव नगरे समागतः।
(v) समाप्य + अध्ययनम् ।
कक्षा 8 वार्षिक परीक्षा की तैयारी विषय संस्कृत के अभ्यास मॉडल प्रश्नपत्र (हल सहित) एवं महत्वपूर्ण प्रश्न और उत्तर।
1. वार्षिक परीक्षा 2024 अभ्यास मॉडल प्रश्न पत्र कक्षा 8 विषय- संस्कृत
2. संस्कृत मॉडल प्रश्नपत्र (ब्लूप्रिंट आधारित) वार्षिक परीक्षा 2024 कक्षा 8
3. संस्कृत कक्षा- 8th वार्षिक परीक्षा वर्ष 2024 हेतु महत्वपूर्ण वैकल्पिक प्रश्न
4. मॉडल प्रश्नपत्र विषय संस्कृत (हल सहित) कक्षा आठवीं वार्षिक परीक्षा 2023
आशा है, उपरोक्त जानकारी उपयोगी एवं महत्वपूर्ण होगी।
(I hope the above information will be useful and important. )
Thank you.
R. F. Tembhre
(Teacher)
pragyaab.com

Comments